सर्वद्वाराणि बध्नाति यदूर्ध्वं च बिलं स्थितम्। न मुञ्चत्यमृतं क्वापि स य्था यत्र धारणात् ॥१५०॥ चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वा रसस्यन्दिनी स्वीकारादुदकस्य दुग्धसदृशो मिष्टाज्यतुल्यस्य च। व्याधीनां जरणं जरापहरणं शास्त्रागमोदगीरणं तस्य स्यादमरत्वमष्टगुणितं दिव्यांगनाकर्षणम् ॥१५१॥ अणिमा महिमा चैव गरिमा लघिमा तथा। ईशित्व च वशित्वं च प्राप्तिः प्राकाम्यमेवा च ॥१५२॥ अमृतापूर्णदेहस्य योगिनो द्वित्रिवत्सरैः। ऊर्ध्वं प्रवर्तते रेतो ह्यणिमादि गुणोदयम् ॥१५३॥ नित्यं सोमकलपूर्णं शरीरं यस्य योगिनः। तक्षकेणापि सदष्टं त विषं न च पीडयेत् ॥१५४॥ ईन्धनानि यथा वह्निस्तैलवर्तिं च दीपकः। तथा सोमकलापूर्णं देहं देही न मुञ्चति ॥१५५॥ आसनेन समायुक्तः प्राणायामेन संयुतः। प्रत्याहारेण सम्पन्नो धारणां च समभ्यसेत् ॥१५६॥ हृदये पञ्चभूतानां धारणा च पृथक् पृथक्। मनसो निश्चलत्वेन धारणा साभिधीयते ॥१५७॥ य पृथ्वी हरितालहेमरुचिरा पीता लकारान्विता संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी। प्राणां तत्र विलीय पञ्चघटिकाश्चित्तान्वितात् धारये देषा स्तम्भकरी सदाक्षितिजयं कुर्यद् भुवो धारणा॥ १५८॥ प्राण तत्र विलीय पञ्चघटिकाष्चित्तानिवितं धारये देषा दुःसहकालकूटदहनी स्याद्वारुणी धारणा॥ १५९॥
यत्तालुस्थितमिन्द्रगोपसदृशं
तत्त्वं त्रिकोणं ज्वलम् तेजोरेफ़युक्तं प्रवालरुचिरं रुद्रेण यत्सङ्गतम्।
प्राणं तत्र विलीय पञ्चघटिकाश्चित्तान्वितं धारये देषा वह्निजयं सदाविदधती
वैश्वानरी धारणा ॥१६०॥ यद् भिन्नाञ्जनपुञ्जसन्निभमिदं वृतं भ्रुवोरन्तरे
तत्त्वं वायुमयं यकारसहितं तत्रेश्वरो देवता। प्राणं तत्रविलीय पञ्चघटिकं
चित्तान्वितं धारये देषा रवे गमनं करोति यमिनां वै वायवी धारणा ॥१६१॥ आकाशं
सुविशुद्धवारिसदृशं यद् ब्रह्मरन्ध्रे स्थितं यन्नाथेन सदाशिवेन सहितं
शान्तं हकाराक्षरम्। प्राणं तत्र विलीया पञ्चघटीकं चित्तन्वितं धारये देषा
मोक्षकपाटपाटनपतुः प्रोक्ता नभोधारणा ॥१६२॥ स्तम्भिनी द्राविणी चैव दाहिनी
भ्रामिणी तथा। शोषिणी च भवात्येषा भूतानां पञ्च धारणाः ॥१६३॥ कर्मणा मनसा
वाचा धारणाः पञ्च दुर्लभाः। विज्ञान सततं योगी सर्वदुःखैः प्रमुच्यते॥ १६४॥
सर्वं चिन्तासमावर्ति योगिनो हृदि वर्तते। या तत्वे निश्चला चिन्ता तद्धि
ध्यानं प्रचक्षते ॥१६५॥ द्विधा भवति तद् ध्यानं सगुणं निर्गुणं तथा। सगुणं
वर्णंभेदेन निर्गुणं केवल विदुः ॥१६६॥ अश्वमेध्सहस्राणि वाजपेयशतानि च।
एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम्॥ १६७॥ आधारे प्रथमे चक्रे
स्वर्णाभे च चतुरङ्गुले। नासाग्रदृष्टिरात्मानां ध्यात्वा योगी सुखी भवेत् ॥१६८॥ स्वाधिष्ठाने शुभे चक्रे सन्माणिक्यसमप्रभे। नासाग्रदृष्टिरात्मानं
ध्यात्वा ब्रह्मसमो भवेत् ॥१६९॥
तरुणादित्यसंकाशे चक्रे तु मणिपूरके।
नासाग्रदृष्टिरात्मानं ध्यात्वा संक्षोभयेज्जगत् ॥१७०॥ अनाहते महाचक्र
द्वादशारे च पन्कजे। नासाग्रे दृष्टिमाधाय ध्यात्वा ध्यातामरो भवेत् ॥१७१॥
सततं घणिटकामध्ये विशुद्धे दीपकप्रभे। नासाग्रदृष्टिरात्मानं ध्यात्वा
दुःखं विमुञ्चति ॥१७२॥ स्रवत्पीयूषसम्पूर्णे लम्बिकाचन्द्रमण्ङ्दले।
नासाग्रदृष्टिरात्मानं ध्यात्वा मृत्युं विमुञ्चति ॥१७३॥ ध्यायन्नीलनिभं
नित्यं भूरमध्ये परमेश्वरम्। आत्मानं विजितप्राणो योगी योगमवाप्नुयात् ॥१७४॥ ब्रह्मरन्ध्रे महाचक्रे सहस्रारे च पन्कजे। नासाग्रदृष्टिरात्मानं
ध्यात्वा सिद्धो भवेत्स्वयम् ॥१७५॥ निर्मलं गगनाकारं मरीचिजलसन्निभम्।
आत्मानं सर्वगंध्यात्वा योगी मुक्तिमवाप्नुयात् ॥१७६॥ गुदं मेढ्रश्च
नाभिश्च हृदयं कण्ठ ऊर्ध्वगः। घण्टिका लंबिकास्थानं भ्रूमध्यं च नभोबिलम् ॥१७७॥ कथितानि नवैतानि ध्यानस्थानानि योगिनाम्। उपाधितत्वमुक्तानां
कुर्वन्त्यष्टगुणोदयम् ॥१७८॥ उपाधिश्च तथा तत्त्वं द्वयमेतदुदाहृतम्।
उपाधिः प्रोच्यते वर्णस्तत्वमात्माभिधीयते ॥१७९॥
उपाधेरन्यथा ज्ञान
तत्वसंस्थितिरन्यथा। अन्यथ वर्णयोगेन दृश्यते स्फटिकपमम् ॥१८०॥
समस्तोपधिविध्वंसात्सदाभ्यासेन योगिनः। मुक्तिकृच्छक्तिभेदेन स्वयमात्मा
प्रकाशते ॥१८१॥ विरजाः परमाकशादात्माकाशो महत्तरः। सर्वंदेत्थ भावनया तत्वं
योगिजना विदुः ॥१८२॥ एतद् ब्रह्मात्मकं तेजः शिवं ज्योतिरनुत्तमम्॥
ध्वात्वा ज्ञात्वा विमुक्तः स्यादिति गोरक्षभाषितम् ॥१८३॥ शब्दादीनां च
तन्मात्रा यावत्कर्णादिषु स्थिताः। तावदेव स्मृतं ध्यानं समाधिः
प्राणसंयमात्॥ १८४॥ धारण पञ्चनाडीभिर्ध्यानं स्यत् षष्टिनाडीभिः।
दिनद्वादशकेनैव समाधिः प्राणसंयमात् ॥१८५॥ यत्समत्वं द्वयोरत्र
जीवात्मपरमात्मनोः समस्तनष्टसंकल्पः समाधि सोऽभिधीयते ॥१८६॥
अंबुसैंधवयोरैक्यं यथा भवति योगतः। तथात्ममनसोरैक्यं समाधिरभिधीयते॥ १८७॥ यदा संलीयते जीवो मानसं च विलीयते। तदा समरसत्वं हि समाधिरभिधीयते॥ १८८॥
इन्द्रियेषु मनोवृत्तिरपरा प्रक्रिया हि सा। ऊर्ध्वमेव गते जीवे न मनो
नेन्द्रियाणि च १८९॥
नाभिजानाति शीतोष्ण न दुःखं न सुखं तथा। न मानं
नापमानं च योगी युक्तः समाधिना ॥१९०॥ न गन्धं न रसं रूपं न च स्पर्शं न
निःस्वनम्। नात्मानं न परं वेत्ति योगी युक्तः समधिना॥ १९१॥ अभेद्यः
सर्वशस्त्राणाग्वध्यः सर्वदेहिनाम्। अग्राह्यो मंत्रयंत्राणां योगी युक्तः
समाधिना॥ १९२॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुखहा॥ १९३॥ निराद्यन्तं निरालम्बं
निष्प्रपञ्चं निराश्रयम्। निरामयं निराकारमचलं निर्गुणं महत्॥ १९४॥
हेतुदृष्टान्तनिर्मुक्तः मनोबुद्ध्याद्यगोचरम्। योगविज्ञानमानन्दं ब्रह्म
ब्रह्मविदो विदुः॥ १९५॥ निरालम्बे निराधारे निराकारे निरामये। योगी
योगविधानेन परब्रह्मणि लीयते॥ १९६॥ यथा घृते घृतं क्षिप्तं घृतमेव हि
जायते। क्षीरे क्षीरं तथा योगी तत्त्वमेव हि जायते॥ १९७॥ दुग्धे क्षीरं
धृते सर्पिरग्नौ वह्निरिवार्पितः। तन्मयत्वं व्रजत्येवं योगी लीनः परे पदे॥
१९८॥ भवभयदवमुक्तिं नाकसोपानमार्गं प्रकटितपरमार्थं ग्रन्थमेनं सुगुह्यम्।
सकृदपि पठतीत्थं यः प्रशस्तप्रबोधं स भवति भुवि मान्यो भाजनं
मोक्षलक्षम्याः॥ १९९॥
नृणां
भवभयहरं मुक्तिसोपानलक्षणम्। गुह्याद् गुह्यतरं चेदं गोरक्षेण
प्रकाशितम्॥ २००॥ इति गोरक्षसनाथोक्तं योगशास्त्रं जनः पठेत्।
सर्वपापविनिर्मुक्तो योगी सिद्धो भवेद् ध्रुवम्॥ २०१॥ योगशास्त्रं
पठेन्नित्यं किमान्यैः शास्त्रविस्तरैः। यत्स्वयं चादिनाथस्य निर्गतं
वदनाम्बुजात्॥ २०२॥ स्नातं तेन समस्ततीर्थसलिले दत्तां महीमण्डलम् यज्ञानां
च कृतं सहस्रमयुतं देवाश्च सम्पूजिताः। सत्यं तेन सुतर्पिताश्च पितरः
स्वर्गं च नीताः पुन यस्य ब्रह्मविचारणे क्षणमपि प्राप्नोतिधैर्यं मनः॥
२०३॥
॥ इति श्रीमत्सिद्धवर्य श्रीगोरक्षनाथ विरचित विवेक मार्तण्डाभिधानं योगशास्त्रं सम्पूर्णम्॥
Tiada ulasan:
Catat Ulasan