Isnin, 13 Januari 2014

Wiweka Martanda bhg. 3


प्राणं सूर्येण चाकृष्य पुरयेदुदरं शनैः। कुम्भयित्वा विधानेन पुनश्चन्द्रेण रेचयेत्॥ १००॥ प्रज्वलज्ज्वलनज्वालापुञ्जमादित्यमण्डलम्। ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत्॥ १०१॥ प्राणंश्चेदिडयापिबेत्परिमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद् वामया। सूर्यचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायतां शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः॥ १०२॥ यथेष्टं धारणं वायोरनलस्य प्रदीपनम्। नादाभिव्यक्तिरारोग्यं जायते नाडिशोधने॥ १०३॥ प्राणो देहे स्थितो वायुरपानस्य निरोधनात्। एकश्वसनमात्रेणोद्घाटयेत् गगने गतिम्॥ १०४॥ पूरकः  कुम्भकश्चैव रेचकः प्रणवात्मकः। प्राणायामो भवेत् त्रेधा मत्रद्वादशसंयुतः॥ १०५॥ मात्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ। दोषजालमपध्नन्तौ ज्ञातव्यौ योगिभिः सदा॥ १०६॥ पूरके द्वादश प्रोक्ताः कुम्भके षोडशैव तु। रेचके दश चोम्कराः प्राणायामः स उच्यते॥ १०७॥ अधमे द्वादश प्रोक्ता मध्यमे द्विगुणा मता। उत्तमे त्रिगुणा ख्याताः प्राणायामस्य निर्णयः॥ १०८॥ अधमे च धनो धर्मः कम्पो भवति मधयमे। उत्तमे स्थानमाप्नोति ततो वायुं निरोधयेत्॥ १०९॥ 

बद्धपद्नासनो योगी नमस्कृत्य गुरुं शिवम्। भ्रूमध्ये दृष्टिरेकाकी प्राणायामं समभ्य्सेत्॥ ११०॥ ऊर्ध्वमाकृष्य चापानवायुं प्राणे नियुज्य च। उर्ध्वमानीय तं शक्त्या सर्वपापैः प्रमुच्यते॥ १११॥ द्वाराणां नवकं निरुद्ध्य मरुत पीत्वा दृढं धारयेत् नीत्वाकाशमपानवह्निसहितं शक्त्या समुद्धटितम्। आत्मस्थानयुतस्त्वनेन विधिना विन्यस्य मूर्घ्न ध्रुवं यावत्तिष्ठति तावदेन महतां संघेन संस्तूयते॥ ११२॥ प्राणायामो भवत्येवं पातकेन्धनपावकः। भवोदधिमहासेतुः प्रोच्यते योगिभिः सदा॥ ११३॥ प्राणायामे महान् धर्मों योगिनो मोक्षदयकः। प्राणायामे दिवारात्रौ दोषजालं परित्यजेत्॥ ११४॥ आसनेन रुजो हन्ति प्राणायामेन पातकम्। विकारं मानसं योगी प्रत्याहारेण मुण्चति॥ ११५॥ मनोधैर्यं धारणया ध्यानाच्चैतन्यमद्भुतम्। समाधौ मोक्षमानोति त्यक्त्व कर्म शुभाशुभम्॥११६॥ प्राणायामद्विषटकेन प्रत्याहारः प्रकीर्तितः। प्रत्याहारद्विषट्केन ज्ञायते धारणा शुभा॥११७॥ धारणा द्वादश प्रोक्तां ध्यानं धानविशारदैः। ध्यानद्वादशकेनैव समाधिरभिधीयते॥११८॥ सम्बद्धासनमेढ्रमंध्रियुगलं कर्णाक्षिनासापुटा द्वाराण्यगुलिभिर्नियम्य पवनं वक्त्रेण चापूरितम्। ध्यात्वा वक्षसि तत्त्वपानसहितं मूर्ध्नि स्थितं धारये देवं याति नरः शिवेन समतां योगीश्वरस्तन्मयः॥ ११९॥ 

पवने गगनं प्राप्ते ध्वनिरुत्पद्यते महान्। घण्टादीनां प्रवाद्यानां तदा सिद्धिरदूरतः॥१२०॥ प्राणायामेन युक्तेन सर्वरोक्षयो भवेत्। आयुक्ताभ्यासयोगेन सर्वरोगस्य संभवह् ॥१२१॥ हिक्का श्वासश्च कासक्ष शिरः कर्णाक्षिवेदनाः। भवन्ति विविधा रोगाः पवनस्य व्यतिक्रमात् ॥१२२॥ यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः। तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥१२३॥ युक्तं युक्तं त्यजेद् वायुं युक्तं युक्तं च पूरयेत्। युक्तं युक्तं च बनीयादेवं सिद्धिमाप्नुयात् ॥१२४॥ चरतां चक्षुरादीनां विषयेषु यथाक्रमम्। यत्प्रत्याहरणं तेषां प्रत्याहारः स उच्यते॥ १२५॥ यथा तृतीयकालस्थो रविः प्रत्याहरेत् प्रभाम्। तृतौयाङ्गस्थितो योगी विकारं मानसं तथा॥ १२६॥ अङ्गमध्ये यथाङ्गन् कूर्मः संकोचयेद् ध्रुवम्। योगी प्रत्याहरेदेवमिन्द्रियाणि तथात्मनि॥ १२७॥ अमेध्यमथवा मेध्यं यं यं पश्यति चक्षुषा। तत्तमात्मेति विज्ञाय प्रत्याहरति योगवित ॥१२८॥ यद्यच्छृणोति कर्णभ्यामप्रियं चाथवाप्रियम्। तत्तदात्मेति विज्ञाय प्रत्याहरति योगवित् ॥१२९॥ 

अमिष्टमथवा मिष्टं यद्यत्स्पृशति जिह्वया। तत्तदात्मेति विज्ञाय प्रत्याहरति योगवित् ॥१३०॥ सुगन्धमयं दुर्गन्धं यद्यज्जिध्रति नासया। तत्तदात्मेति विज्ञाय प्रत्याहरति योगवित् ॥१३१॥ कर्कंशं कोमलं वापि यद्यत् स्पृशति च त्वचा। तत्तदात्मेति विज्ञाय प्रत्याहरति योगवित् ॥१३२॥ चन्द्रामृत्मयीं धारां प्रत्याहरति भास्करः। यत्प्रत्यहरणं तस्याः प्रत्याहारः स उच्यते ॥१३३॥ एका स्त्री भुज्यते द्वाभ्यामागता चन्द्रमण्डलात्। तृतीयोऽपि पुनस्ताभ्यां स भवेदजरामरः ॥१३४॥ नाभिदेशे वसत्येको भास्करो दहनात्मनः। अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः ॥१३५॥ वर्षत्यधोमुखश्चन्द्रो ग्रस्त्यूर्ध्वमुखो रविः। ज्ञातव्या करणं तत्र येन पीयूषमाप्यते॥ १३६॥ ऊर्ध्वं नाभिरधस्तालु चोर्ध्वं भानुरधः शशी। करणं विपरीताख्यं गुरुवाक्येन लभ्यते॥ १३७॥ त्रिधा बद्धो वृषो यत्र रोखिति महास्वनः। अनाहतं तु तच्चक्रं योगिनो हृदयेविदुः ॥१३८॥ अनाहतमतिक्रम्य चाक्रम्य मणिपूरकम्। प्राप्ते प्राणे महापद्मं योगीतमृतायते ॥१३९॥ 

ऊर्धवं षोडशपत्रपद्मगलितं प्राणाद्वाप्तं हठा दूर्ध्वस्यो रसनां नियम्य विवरे शान्ति परां चिन्तयन्। उत्कल्लोलकलाजलं सुविमलं जिह्वाकुलम् यः पिबे न्निर्दोषः स मृणालकोपुर्योगी चिरं जीवति॥ १४०॥ काकचञ्चुवदास्येन शीतलं सलिलं पिबेत्। प्राणापानविधानेन योगी भवति निर्जरः॥ १४१॥ रसनातालुयोगेन योऽमृतं सततं पिबेत्। अब्दार्द्धेन भवेत्तस्य सर्वरोगपरिक्षयः॥ १४२॥ विशुद्धे परमे चक्रे धृत्वा सोमकलाजलम्। उन्मार्गेण कृतं याति वञ्चयित्वा खेर्मुखं ॥१४३॥ वि शब्देन स्मृतो हंसो निर्मलं शुद्धमुच्यते। अतः कण्ठे विशुद्धाख्ये चक्रं चक्रविदो विदुः ॥१४४॥ अमृतं कन्दरे कृत्वा नासान्तसुषिरे क्रमात्। स्वयमुच्चालितं याति वर्जयित्वा खेर्मुखं ॥१४५॥ बद्धं सोमकलाजलं सुविमलं कण्ठस्थलादूर्ध्वतो नासान्ते सुषिरे याति गगनद्वारं ततः सर्वतः। ऊर्ध्वास्यो भुवि सन्निपत्य नितरामुत्तानगात्रः पिब त्येवं यो विबुद्धो जितेन्द्रियगणो नैवास्ति तस्य क्षयः॥ १४६॥ उर्ध्वजिह्वः स्थिर भूत्वा सोमपनां करोति यः। अब्दार्धेन न सन्देहो मृत्युं जयति योगवित्॥ १४७॥ बद्धम् मूलबिल येन तेन विघ्नो विदारितः। अजरामरमाप्नोति यथा पञ्चमुखो हरः ॥१४८॥ संपीड्य रसनाग्रेण राजदन्तबिलं महत्। ध्यात्वामृतमयीं देवीं षण्मासेन सुकविर्भवेत् ॥१४९॥ 

Tiada ulasan:

Catat Ulasan