आधाराख्यं गुदस्थाने पङ्कजं च चतुर्दलम्। तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता॥२०॥योनि मध्ये महा लिङ्गं पश्चिमाभिमुखं स्थितम्। मस्तके मणिवद् बिम्बं यो जानाति स योगवित्॥२१॥तप्तचामीकराभासं तडिल्लेखेव विस्फुरत्। त्रिकोणं तत्पुरंवह्नेरधो मेढ्रात्प्रतिष्ठितम्॥२२॥यत्समाधौ परं ज्योतिरनन्तं विश्वतो मुखम्। तस्मिन् दृष्टे महा योगे यातायातं न विद्यते॥२३॥दृष्टिः स्थिरा यस्य विनापि दृश्या द्वायुः स्थिरो यस्य विनापि यत्नात्। मनः स्थिरं यस्य विनाबलम्बवात् स एव योगी स गुरूः स सेव्यः॥ २४॥स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः। स्वाधिष्ठानाश्रयस्तस्मान्मेढ्रमेवाभिधीयते॥२५॥तन्तुना मणिवत्प्रोतो यत्र कन्दः सुषुम्णया। तन्नाभिमण्डले चक्रं प्रोच्यते मणिपूरकम्॥२६॥ द्वादशारे महाचक्रे पुण्यपापविवर्जिते। तावज्जीवो भ्रमत्येव यावत्तत्त्वं न विन्दति॥२७॥ ऊर्ध्वं मेढ्रादधो नाभेः कन्दयोनिः खगाण्डवत्। तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः॥२८॥ तेषु नाडि सहस्रेषु द्विसप्ततिरुदाहृताः। प्रधानः प्राणवाहिन्यो भूयस्तासु दशस्मृताः॥२९॥
इडा च
पिङ्गला चैव सुषुम्णा च तृतीयका। गान्धारी हस्ति जिह्वा च पूषा चैव
यशस्विनी॥३०॥ अलम्बुषा कुहूश्चैवशङ्खिनी दशमी स्मृता। एतन्नाडिमयं चक्रं
ज्ञातव्यं योगिभिः सदा॥३१॥ इडा वामे स्थिता भागे दक्षिणे पिङ्गला स्मृता।
सुषुम्णा मध्यदेशे तु गान्धारी वामचक्षुषि॥३२॥ दक्षिणे हस्तिजिह्वा च पूषा
कर्णे च दक्षिणे। यशस्विनी वाम कर्णं आनने चाप्यलम्बुषा॥३३॥ कुहूश्च लिङ्ग
देशे तु मूलस्थाने च शङ्खिनी। एवं द्वारम् समश्रित्य तिष्ठन्ति दशनाडयः॥३४॥
इडा च पिङ्गला चैव सुषुम्णा प्राणसंश्रिताः। सततं प्राणवाहिन्यः
सोमसूर्याग्निदेवताः॥३५॥ प्राणोपानः समानश्चोदानो तथैव च। नागः कूर्मोथ
कृकरो देवदत्तो धनञ्जयः॥३६॥ प्राणाद्याः पञ्चविख्याता नागाद्याः पञ्च
वायवः। हृदि प्राणो वसेन्नित्यमपानो गुदमण्डले॥३७॥ समानो नाभिदेशे
स्यादुदानः कण्ठदेशगः। व्यानो व्यापी शरीरे तु प्रधानाः पञ्चवायवः॥३८॥
उद्गारे नाग आख्यातः कूर्म उन्मीलने स्मृतः। कृकरः क्षुतके ज्ञेयो देवदत्तो
विजृम्भणे॥३९॥
न जहाति मृतं चापि सर्वव्यापि धनञ्जयः। एते नाडीषुसहस्रेषु
वर्तन्ते जीवरूपिणः॥४०॥ आक्षिप्तो भुज दण्डेन यथोच्चलति कन्दुकः।
प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति॥४१॥ प्राणापानवशो जीवो
ह्यश्चोर्ध्वं च धावति। वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते॥४२॥
रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः। गुणबद्धस्तथा जीवः
प्राणापानेन कृष्यते॥४३॥ अपानः कर्षति प्राणः प्राणोपानं च कर्षति।
ऊर्ध्वाधः संस्थिताव् एतौ संयोजयति योगवित्॥४४॥ हकारेण बहिर्याति सकारेण
विशेत् पुनः। हंसहंसेत्य्ं मन्त्रं जीवो जपति सर्वदा॥४५॥ षट्शतानि
दिवारात्रौ सहस्राण्येक विंशतिः। एतत्सङ्ख्यान्वितं मन्त्र जीवो जपति
सर्वदा॥४६॥ अजपा नाम गायत्री योगिनां मोक्ष दायिनी। अस्याः सङ्कल्प मात्रेण
नरः पापैर्विमुच्यते॥४७॥ अनया सदृशो विद्या अनया सदृशो जपः। अनया सदृशं
ज्ञानं न भूतं न भविष्यति॥४८॥ अनया सदृशं तीर्थमनया सदृशः क्रतुः। अनया
सदृशं पुण्यं न भूतं न भविष्यति॥४९॥
अनया सदृशो स्वर्गो अनया सदृशो तपः।
अनया सदृशं वेद्यम् न भूतं न भविष्यति ॥५०॥ कुन्दलिन्याः समुद्भूता गायत्री
प्राणधारिणी। प्राणविद्या महाविद्या यस्तां वेत्ति स योगवित् ॥५१॥
प्रस्फुरद् भुजगाकारा पद्मतन्तुनिभा शुभा। मूढ़ानां बन्धिनि सास्ति योगिनां
मोक्षदायिनो ॥५२॥ कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुटिलाकृति।
ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति ॥५३॥ येन मार्गेण गन्तव्यं
ब्रह्मस्थानमनामयम्। मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी॥५४॥
प्रबुद्धा वह्नियोगेन मनसा मारुतै सहः। सूचीव गुणमादाय व्रजत्यूर्ध्वं
सुषुम्णया ॥५५॥ उद्घटयेत् कपातं तु यथा कुञ्चिकया हठात्। कुण्डलिन्या तथा
योगी मोक्षद्वारं प्रभेदयेत् ॥५६॥ कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु
पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च तच्चेतसा। वारं
वारमपानमूर्ध्वमनिलंप्रोच्चारयेत् पूरयन् मुञ्चन् प्राणमुपैतिबोधमतुलं
शक्तिप्रबोधान्नरः॥५७॥ अङ्गानां मर्दनं कृत्वा श्रमसञ्जातवारिणा।
कट्वम्ललवणत्यागीक्षीरभोजनमादिशेत् ॥५८॥ ब्रह्मचारी मिताहारी त्यागी
योगपरायणः। अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा॥५९॥
सुस्निग्धमधुराहारं चतुर्थांशविवर्जितम्। भुङ्क्त् य इश्वरप्रीत्यै
मिताहारि स उच्यते ॥६०॥ महामुद्रां नभोमुद्रामुड्डियानं जलन्धरम्। मूलबन्धं
च यो वेत्ति स योगी सिद्धिभाजनम्॥६१॥ अपानप्राणयोरैक्ये
क्षयोमूत्रपुरीषयोः। युवा भवति वृद्धोऽपि सततं मूलबन्धनात्॥ ६२॥
पार्ष्णिभागेनसंपीड्य योनिमाकुञ्चयेद् गुदम्। अपानमूर्ध्वमाकृष्य मूलबन्धो
निगद्यते॥ ६३॥ उड्डीनं कुरुते यस्मादविश्रान्तो महाखगः। उड्डीयानं तदेव
स्यान्मृत्युमातङ्गकेसरी॥ ६४॥ उदरात्पश्चिमे भागे ह्यधो नाभेर्निगद्यते।
उड्डीयानाह्वयो बन्धस्तत्र बन्धो विधीयते॥ ६५॥ बध्नाति हि सिरोजालं नाधो
याति नभोजलम्। ततो जालन्धरो बन्धः कण्ठे दुःखौघनाशकः॥ ६६॥ जालन्धरे कृते
बन्धे कण्ठसंकोचलक्षणे। पीयूषं न पतत्यग्नौ न च वायुः प्रकुप्यति॥ ६७॥
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा। भ्रुवोरन्तर्गता दृष्टिर् मुद्रा
भवति खेचरी॥ ६८॥ चित्तं चलति खे यस्माज्जिह्वा चरति खे गता। तेनैव खेचरी
मुद्रा सर्वसिद्धैर्नमस्कृता॥ ६९॥ न रोगो मरणं तस्य न निद्रा न क्षुधा
तृषा। न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम्॥ ७०॥ पीड्यते न च
शिकेन लिप्यते न च कर्मणा। बाध्यते न स केनापि यो मुद्रां वेत्ति खेचरीम्॥
७१॥ बिन्दुमूल शरीरणां शिरास्तत्र प्रतिष्ठिताः। भावयन्ति शरीराणि
चापादतलमस्तकम्॥७२॥खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः।न तस्य
क्षरते बिन्दुः कामिन्यालिङ्गितस्य च॥ ७३॥ यावद् बिन्दुः स्थितो देहे
तावन्मृतोर्भयं कुतः।यावद् बद्धा नभोमुद्रा तावद् बिन्दुर्न गच्छति॥ ७४॥
चलितोऽपि यदा बिन्दुः सम्प्राप्तश् च हुताशनम्। व्रजत्यूर्ध्वं हृतः
शक्त्या निरुद्धो योनिमुद्रया॥ ७५॥ स पुनर्द्विविधो बिन्दुः पण्डुरो
लोहितस्तथा। पाण्डुरः शुक्रमित्याहुर्लोहितां च महाराजः॥ ७६॥
सिन्दूरद्रवसङ्काशं राविस्थाने स्थितं रजः। शशिस्थाने स्थितो
बिन्दुस्तयोरैक्यं सुदुर्लभम्॥ ७७॥
बिन्दुः
शिवो रजः शक्तिर्बिन्दुरिन्दू रजो रविः। उभयोः सङ्गमादेव प्राप्यते परमं
पदम्॥ ७८॥ वायुना शक्तिचारेण प्रेरितं तु यदा रजः। याति बिन्दोः सहैकत्वं
भवेद्दिव्यं वपुस्तदा॥ ७९॥ शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संगतम्।
तयोः समरसैकत्वं यो जानाति स योगवित्॥ ८०॥ शोधनं नाडिजालस्य चालनं
चन्द्रसूर्ययोः। रसानाशोषणं कुर्यान्महामुद्राभिधीयते॥ ८१॥ वक्षोन्यस्तहनुः
प्रोपिड्यसुचिरं योनिं च वमाङ्घ्रणा हस्ताभामनुधारयेत्प्रसरितं पादं तथ
दक्षिणम्। आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनैः रेचये देषा
व्याधिविनाशिनी च महतो मुद्रा नृणां प्रोच्यते॥ ८२॥ चन्द्राङ्गेन समभ्यस्य
सूर्याङ्गेनाभ्यसेत्पुनः। यावत्तुल्या भवेत्संख्या ततो मुद्रां विसर्जयेत्॥
८३॥ न हि पथ्यमपथयं वा रसाः सर्वेऽपि नीरसाः। अपि भुक्तं विषं घोरं
पियूषमिवजिर्यति॥ ८४॥ क्षयकुष्ठगुदावर्तगुल्माजीर्णप्रिगमाः। तस्य रोगाः
क्षयं यान्ति महामुद्रांतु योऽभ्यसेत्॥ ८५॥ कथितेयं महामुद्रा महासिद्धिकरी
नृणाम्। गोप्नीया प्रयत्नेन न देया यस्य कस्य्चित्॥ ८६॥ पद्मासनं समारुह्य
समकायशिरोधरः। नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम्॥ ८७॥ भूर्भुवः
स्वरिमे लोकाः सोमसूर्याग्निदेवताः। प्रतिष्ठिता यत्र सदा तत्परं
ज्योतिरोमिति॥ ८८॥ त्रयः कालास्त्रयो वेदास्त्रयो लोकास्त्रयः स्वराः।
त्रयो देवाः स्थिता यत्र तत्परं ज्योतिरोमिति॥ ८९॥
सत्त्वं रजस्तमश्चाव
ब्रह्मविष्णुमहेश्वराः। त्रयो देवाः स्थिता यत्र तत्परं ज्योतिरोमिति॥ ९०॥
कृतिरिच्छा तथा ज्ञानां ब्राह्मी रौद्री च वैष्णवी। त्रिधा शक्तिः स्थिता
यत्र तत्परं ज्योतिरोमिति॥ ९१॥ शुचिर्वाप्यशुचिर्वापि यो जपेत् प्रणवं सदा।
न स लिप्यति पापेन पद्मपत्रमिवाम्भसा॥ ९२॥ चले वाते चलं चित्तं निश्चले
निश्चल भवेत्। योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत्॥ ९३॥ यावद्
बद्धो मरुद्देहे तावच्चित्तं निरामयम्। यावद् दृष्टिर्भ्रुवोर्मध्ये
तावन्मृत्युभयं कुतः॥ ९४॥ यावद् वायुः स्थितो देहे तावज्जीवो न मुच्यते।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत्॥ ९५॥ अतः कालभयाद् ब्रह्मा
प्राणायामपरायणः। योगिनो मुनयः सर्वें ततो वायुं निरोधयेत्॥ ९६॥ शुद्धिमेति
यदा सर्वं नाडीचक्रं मलाकुलम्। तदैव जायते योगी क्षमः प्राणनियन्त्रणे ॥
९७॥ बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत्। धारयित्वा यथाशक्ति पुनः
सूर्येण रेचयेत्॥ ९८॥ अमृतंदधिसङ्काशं गोक्षीरधवलोपमम्। ध्यात्वा चन्द्रमसो
बिम्बं प्राणायामी सुखी भवेत्॥ ९९॥
Tiada ulasan:
Catat Ulasan