Selasa, 21 Januari 2014

Totakastakam


 

विदिताखिलसास्त्रसुधाजलधे महितोपनिषत्कथितार्थनिधे ।

हृदये कलये विमलं चरणं भवशङ्कर देशिक मे शरणं ॥ १॥

करुणावरुणालय पालय माम् भवसागर दुःख विदूनहृदम् ।

रचयाखिलदर्सनतत्त्वविदम् भवशङ्कर देशिक मे शरणं ॥ २॥

भवता जनता सुहिता भविता निजबोधविचारण चारुमते ।

कलयेश्वर जीवविवेकविदम् भवशङ्कर देशिक मे शरणं ॥ ३॥

भव एव भवा निति मे नितरां समजायत चेतसि कौतुकिता ।

मम वारय मोहमहाजलधिंभवशङ्कर देशिक मे सरनम् ॥ ४॥

सुक्रिते’धिक्रिते बहुधा भवतो भविता समदर्शनलालसता ।

अतिदीनमिमं परिपालय मां भवशङ्कर देशिक मे शरणं ॥ ५॥

 जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलत: ।

अहिमांशुरिवात्र विभासि गुरो भवशङ्कर देशिक मे शरणं ॥ ६॥

गुरुपुङ्गव पुङ्गव केतन ते समतामयताम् नहि को’पि सुधी: ।

सरणागतवत्सल तत्त्वनिधे भवशङ्कर देशिकमे शरणं ॥ ७॥

विदिता न मया विसदैककला न च किञ्चन कान्चन मस्ति गुरो ।

द्रुतमेव विधेहि क्रुपां सहजां भवशङ्कर देशिक मे शरणं ॥ ८॥

Tiada ulasan:

Catat Ulasan